| ग्रह (Planet) | श्लोक (Mantra) |
|---|---|
सूर्य (Sun) |
जपाकुसुम संकाशं काश्यपेयं महद्युतिम् । तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ |
चंद्र (Moon) |
दधिशंखतुषाराभं क्षीरोदार्णव संभवम् । नमामि शशिनं सोमं शम्भोर्मुकुट भूषणम् ॥ |
मंगळ (Mars) |
धराणीगर्भसंभूतं विद्युत्कांति समप्रभम् । कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्यहम् ॥ |
बुध (Mercury) |
प्रियंगुकलिकाश्यामं रूपेणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ |
गुरु (Jupiter) |
देवानां च ऋषीणां च गुरुं कांचनसंनिभम् । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ |
शुक्र (Venus) |
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ |
शनी (Saturn) |
नीलांजनसमाभासं रविपुत्रं यमाग्रजम् । छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥ |
राहू (Rahu) |
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् । सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥ |
केतू (Ketu) |
पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् । रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ |